संस्कृत : समास एवं उसके प्रकार


samas & uske prakar
Sanskrit Samas

समासः - 

परिभाषा:- अनेकेषां_पदानां_एकपदी_भवनं_समासः।

 व्याख्या:-

दो या दो से अधिक पदों का एक पद हो जाना , समास कहलाता है ।
समास’ शब्द का शाब्दिक अर्थ होता है ‘छोटा-रूप’।
            यथा :- दिनं दिनं प्रति - प्रतिदिनं ।

समास_विग्रह :- 

            किसी समस्त पद या सामासिक शब्द को उसके विभिन्न पदों एवं विभक्ति सहित पृथक् करने की क्रिया को समास का विग्रह कहते हैं।
समासा: द्विधा :-

1- केवलसमास: ।                 2- विशेषसमास: ।


केवलसमास: - तत्‍पुरुषादिसंज्ञाविनिर्मुक्‍त: समाससंज्ञामात्रयुक्‍त: केवलसमास: । 
अर्थात् यस्‍य समासस्‍य नास्ति नाम कश्चित् स: समास: केवलसमास: इति अभिधीयते (ज्ञायते) । 

विशेषसमास: -
विशेषसमास: चतुर्धा -

1- अव्ययीभावसमास: -

सूत्र :- पूर्वपदार्थप्रधानो_अव्ययीभाव: । 
         यस्मिन् पूर्वपदस्‍य प्राधान्‍यं भवति स: अव्‍ययीभावसमास: इति अभिधीयते । अव्‍ययीभावे प्राय: पूर्वपदम् अव्‍ययमपि भवति एव । 
(Note :-
(i) इसका पहला पद या पूरा पद अव्यय होता है।
(ii) उपसर्ग युक्त पद भी अव्ययीभव समास होते हैं।)

यथा:-

 समीपार्थक: - कृष्‍णस्‍य समीपम् - उपकृष्‍णम् 
अभावार्थक: - मक्षिकाणाम् अभाव: - निर्मक्षिकम्
योग्‍यतार्थक: - रूपस्‍य योग्‍यम् - अनुरूपम् 
वीप्सार्थक: - दिनं दिनं प्रति - प्रतिदिनम्
पदार्थानतिवृ्‍यर्थक: - शक्तिम् अनतिक्रम्य 
मर्यादार्थक: - आ मुक्‍ते: - आमुक्ति: (संसार:)
अभिविध्यर्थक: - आ बालेभ्‍य: - आबालम् (हरिभक्ति:)
आभिमुख्यार्थक: - अग्निम् अभि - अभ्‍यग्नि
मात्रार्थक: - शाकस्‍य लेश: - शाकप्रति 
अवधारणार्थक: - यावन्‍त: श्‍लोका: - यावच्‍छ्लोकम्
पारेशब्दयुक्‍त: - पारे समुद्रस्‍य - पारेसमुद्रम् 
मध्येशबदयुक्त: - मध्‍ये गंगाया: - मध्‍येगंगम्  आदि ।

2- तत्पुरुषसमास: -

सूत्र :- उत्तरपदार्थप्रधानो_तत्पुरुष: ।
       यस्मिन् शब्‍दे उत्‍तरपदस्‍य प्राधान्‍यं भवति स: तत्‍पुरुषसमास: । 
(Note :-कारक चिन्हों से विग्रह वाला समास तत्पुरुष समास होता है ।)
यथा:-
प्रथमा तत्‍पुरूष: - अर्धं ग्रामस्‍य - अर्धग्राम: 
द्वितीया तत्‍पुरूष: - गृहं गत: - गृहगत:
तृतीया तत्‍पुरूष: - नखै: भिन्‍न: - नखभिन्‍न: 
चतुर्थी तत्‍पुरूष: - गवे हितम् - गोहितम्
पंचमी तत्‍पुरूष: - चोरात् भयम् - चोरभयम् 
षष्‍ठी तत्‍पुरूष: - वृक्षस्‍य मूलम् - वृक्षमूलम्
सप्‍तमी तत्‍पुरूष: - कार्ये कुशल: - कार्यकुशल: आदि।
    क.द्विगु: समास:
  सूत्र:- संख्यपुर्वो_द्विगु ।
     द्विगुसमास: अपि तत्‍पुरुषस्‍यैव भेद: ।  
                 एष: त्रिधा ।
 (Note:- द्विगु समास में प्रायः पूर्वपद संख्यावाचक होता है।)

   यथा :-

  समाहारद्विगु: - त्रयाणां लोकानां समाहार: - त्रिलोकी 
  तत्रितार्थद्विगु: - षण्‍णां मातृणाम् अपत्‍यम् -  षाण्‍मातुर: 
   उत्‍तरपदद्विगु: - पंच गाव: धनं यस्‍य स: - पंचगवधन: आदि ।
  ख. कर्मधारय: समास:
सूत्र :-तत्पुरुष: समानाधिकरणः कर्मधारय: ।
कर्मधारयसमास: अपि तत्‍पुरुषस्‍यैव एक: अन्‍य: भेद: ।  कर्मधारयसमास: नवधा ।
(Note :- कर्मधारय समास में एक पद विशेषण होता है तो दूसरा पद विशेष्य।)

विशेषणपूर्वपद: - नीलो मेघ: - नीलमेघ: 
विशेषणोत्‍तरपद: - वैयाकरण: खसूचि: - वैयाकरणखसूचि:
विशेषणोभयपद: - शीतम् उष्‍णम् - शीतोष्‍णम् 
उपमानपूर्वपद: - मेघ इव श्‍याम: - मेघश्‍याम:
उपमानोत्‍तरपद: - नर: व्‍याघ्र: इव - नरव्‍याघ्र: 
अवधारणापूर्वपद: - विद्या इव धनम् - विद्याधनम्
सम्‍भावनापूर्वपद: - आम्र: इति वृक्ष: - आम्रवृक्ष: 
मध्‍यमपदलोप: - शाकप्रिय: पार्थिव: - शाकपार्थिव:
मयूरव्‍यंसकादि: - अन्‍यो देश: - देशान्‍तरम् आदि ।

3- बहुब्रीहिसमास: -

सूत्र :-अन्यपदार्थप्रधानो_बहुब्रीहि: ।
       यस्मिन् पदे पूर्वोत्‍तरद्वयोरपि प्राधान्‍यं न भवति अपितु कस्‍यचित् अन्‍यस्‍य एव शब्‍दस्‍य प्राधान्‍यं भवति तत्र बहुब्रीहि समास: भवति ।  
(Note :-इसमें प्रयुक्त पदों के सामान्य अर्थ की अपेक्षा अन्य अर्थ की प्रधानता रहती है।)
 यथा :-
लम्बोदरः - लम्बम् उदरं यस्य: सः ( गणेश:),
वीणापाणी - वीणा पाणौ यस्या सा ( सरस्वती ),
निलकंठः - निलः कंठः यस्य: सः ( शिव: )  आदि ।

4- द्वंद्व  समास: - 

सूत्र:-उभयपदार्थप्रधानोद्वन्द्व: ।
यत्र उभयशब्‍दयो: प्राधान्‍यं भवति स: समास: द्वन्‍द्व: इति कथ्‍यते ।
(Note :-(i)द्वन्द्व समास में दोनों पद प्रधान होते हैं।

(ii) दोनों पद प्रायः एक दूसरे के विलोम होते हैं, सदैव नहीं।

(iii)इसका विग्रह करने पर ‘और’ का प्रयोग होता है।)

 यथा -

 रामकृष्णौ -रामः च कृष्णः च 
           दंपत्ति - जाया च पतिः च 
           पितरौ - माता च पिता च
          पाणिपादं - पाणी च पादौ च आदि ।
अद्य एतावदेव अलम् ।

संस्कृत : समास एवं उसके प्रकार संस्कृत : समास एवं उसके प्रकार Reviewed by rajyashikshasewa.blogspot.com on 9:03 PM Rating: 5

No comments:

Powered by Blogger.